॥ श्रीः ॥
3.199. अध्यायः 199
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन सेदुकवृषदर्भचरितकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-199-0x(2430)(23735)
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत्पाण्डवः ॥ 3-199-1(23736)
अथाचष्ट मार्कण्डेयो महाराज वृषदर्भसेदुकनामानौ राजानौ नतिमार्गरतावस्त्रोपास्त्रकृतिनौ ॥ 3-199-2(23737)
सेदुको वृषदर्भस् बालस्यैव उपांशुव्रतमभ्यजानात् कुप्यमदेयं ब्राह्मणस्य ॥ 3-199-3(23738)
अथ तं सेदुकं ब्राह्मणः कश्चिद्वेदाध्ययनसंपन्न आशिषं दत्त्वा गुर्वर्थी भिक्षितवान् ॥ 3-199-4(23739)
अश्वसहस्रं मे भवान्ददात्विति ॥ तं सेदुको ब्राह्मणमब्रवीत् ॥ 3-199-5(23740)
नास्ति संभवो गुर्वर्थं दातुमिति ॥ 3-199-6(23741)
स त्वं गच्छ वृषदर्भसकाशम् ॥ राजा परमधर्मज्ञो ब्राह्मण तं भिक्षस्व ॥ स ते दास्यति तस्यैतदुपांशुव्रतमिति ॥ 3-199-7(23742)
अथ ब्राह्मणो वृषदर्भसकाशं गत्वा अश्वसहस्रमयाचत ॥ स राजा तं कशेनाताडयत् ॥ 3-199-8(23743)
तं ब्राह्मणोऽब्रवीत् ॥ किं हिंस्यनागसं मामिति ॥ 3-199-9(23744)
एवमुक्त्या तं शपन्तं राजाऽऽह ॥ विप्र किं यो न ददाति तुभ्यमुताहोस्विद्ब्राह्मण्यमेतत् ॥ 3-199-10(23745)
कब्राह्मण उवाच। 3-199-11x(2431)
राजाधिराज तव समीपं सेदुकेन प्रेषितो भिक्षितुमागतः तेनानुशिष्टेन मया त्वं भिक्षितोसि ॥ 3-199-11(23746)
पूर्वाह्णे ते दास्यामि यो मेऽद्य बलिरागमिष्यति ॥ यो हन्यते कशया कथं मोघं क्षेपणं तस्य स्यात् ॥ 3-199-12(23747)
3-199-13(23748)
इत्युक्त्वा ब्राह्मणाय दैवसिकामुत्पत्तिं प्रदात् ॥ अधिकस्याश्वसहस्रस्य मूल्यमेवादादिति ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-199-3 उपांशु बहिरनुद्धाटितम्। कुप्यं स्वर्णरूप्यादन्यत् ॥ 3-199-8 कशेन पुंस्त्वमार्षम् ॥ 3-199-9 हिंसि हिनस्सि ताडयसि ॥ 3-199-10 शपन्तं शापं दित्सन्तम्। हे विप् यो न ददाति स्वीयं धनं तुभ्यं तस्मै वा एतत् शापदानं उचितम्। उताहोस्वित् एतद्ब्राह्मण्यं ब्राह्मणयोग्यं स्वोयमपि दित्सन्न शापयोग्यः नापि शानतिधर्मा ब्राह्मणः शापं दातुमर्हतीत्यर्थः ॥ 3-199-12 क्षेपणं दूरीकरणम्। अवश्यं स प्रसादनीय इत्यर्थः ॥ 3-199-13 दैवसिकां एकदिवसजातामुत्पततिं धनस्य। स्वनियमभङ्गाय प्रवृत्तं ब्राह्मणं दण्डयितुमपि प्रार्थितादधिकं दत्त्वा प्रसादयितुमपि समर्था राजान इति तात्पर्यम् ॥